国土安全、疫病退散、無病息災を祈願〜サンスクリットで般若心経を唱える

D3D49CBC-A821-47FA-980D-38EEF77A3461
日本国内でも新型コロナウイルス感染者数が増えてきました。
対岸の火事ではありません。
世界の国土安全、疫病退散、無病息災を願い、『般若心経』をサンスクリットで唱えてたいと思います。
下記のリンクに音声動画を見ることができます。
一緒に唱えましょう。
https://youtu.be/c_28-9TvfCc(『般若心経』のサンスクリットテロップ入り)
https://youtu.be/rp90SqFKKVI(制作元のオリジナル)

अथ प्रज्ञापारमिताहृदयसूत्रम् ।

ॐ नमः सर्वज्ञाय ।

आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पंचस्कन्धा: । तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृतक् शून्यता शून्यताया न पृतग्रूपं
यद्रूपं सा शून्यता या शून्यता तद्रूपं ।एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्मा: शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णा: ।
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
न चक्षु:श्रोत्रघ्राणजिह्वाकायमनांसि ।न रूपशब्दगंधरसस्प्रष्टव्यधर्मा: ।
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विध्या नाविध्या न विध्याक्षयो नाविध्याक्षयो ।
यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्ग न ज्ञानं न प्राप्तिरप्राप्तित्वेन ।
बोधिसत्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रांतो निष्ठनिर्वाणः ।
त्र्यध्वव्यवस्तिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।
तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामंत्रो महाविद्यामंत्रो ऽनुत्तरमंत्रोऽसमसममंत्रः
सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मंत्रः ।

तद्यथा

गते गते पारगते पारसंगते बोधि स्वाहा ॥

इति प्रज्ञापारमिताहृदयं समाप्तम्॥