師匠の祥月命日に

170E71EA-B8B5-4360-966E-BFCC0F4C994BABC05495-D4FD-4627-A6B2-A58CFC0AC19E

8月1日は師匠の祥月命日、年忌法要の日です。
本日、自宅のハスのライトアップをしました。
また、自宅界隈の恒例の花火大会の日。
時節柄、広報なしで打ち上げられました。
ボン ボンと打ち上げられる音に夏を感じました。
関東は今日、長い梅雨が明けました。

世界中の人心安寧 疫病退散を祈願して『般若心経』を唱えましょう。

अथ प्रज्ञापारमिताहृदयसूत्रम् ।

ॐ नमः सर्वज्ञाय ।

आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पंचस्कन्धा: । तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृतक् शून्यता शून्यताया न पृतग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं ।
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्मा: शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णा: ।
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
न चक्षु:श्रोत्रघ्राणजिह्वाकायमनांसि । न रूपशब्दगंधरसस्प्रष्टव्यधर्मा: ।
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विध्या नाविध्या न विध्याक्षयो नाविध्याक्षयो ।
यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्ग न ज्ञानं न प्राप्तिरप्राप्तित्वेन ।
बोधिसत्वस्य प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रांतो निष्ठनिर्वाणः ।
त्र्यध्वव्यवस्तिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।
तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामंत्रो महाविद्यामंत्रो ऽनुत्तरमंत्रोऽसमसममंत्रः
सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मंत्रः ।

तद्यथा

गते गते पारगते पारसंगते बोधि स्वाहा ॥

इति प्रज्ञापारमिताहृदयं समाप्तम्॥